ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - चतुरवसानाष्टपदा विकृतिः

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

त्वम॑ग्ने॒ क्रतु॑भिः के॒तुभि॑र्हि॒तो॒र्कः समि॑द्ध॒ उद॑रोचथा दि॒वि। किम॒भ्यार्चन्म॒रुतः॒ पृश्नि॑मातरो॒ यद्रोहि॑त॒मज॑नयन्त दे॒वाः। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

स्वर सहित पद पाठ

त्वम् । अ॒ग्ने॒ । ऋतु॑ऽभिः । के॒तुऽभि॑ः । हि॒तः । अ॒र्कः । सम्ऽइ॑ध्दः । उत् । अ॒रो॒च॒था॒ः । दि॒वि । किम् ।अ॒भि । आ॒र्च॒न् । म॒रुत॑ः । पृश्नि॑ऽमातरः । यत् । रोहि॑तम‌् । अज॑नयन्त । दे॒वाः । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑ः । यः । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२३॥


स्वर रहित मन्त्र

त्वमग्ने क्रतुभिः केतुभिर्हितोर्कः समिद्ध उदरोचथा दिवि। किमभ्यार्चन्मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥


स्वर रहित पद पाठ

त्वम् । अग्ने । ऋतुऽभिः । केतुऽभिः । हितः । अर्कः । सम्ऽइध्दः । उत् । अरोचथाः । दिवि । किम् ।अभि । आर्चन् । मरुतः । पृश्निऽमातरः । यत् । रोहितम‌् । अजनयन्त । देवाः । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आगः । यः । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२३॥