ऋषिः - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसानाष्टपदा भुरिगाकृतिः
स्वरः - अध्यात्म सूक्त
अ॒ष्ट॒ऽअधा । यु॒क्तः । व॒ह॒ति॒ । वह्नि॑ः । उ॒ग्रः । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । म॒ती॒नाम् । ऋ॒तस्य॑ । तन्तु॑म् । मन॑सा । मि॒मान॑ः । सर्वा॑ः । दिश॑ः । प॒व॒ते॒ । मा॒त॒रिश्वा॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑ः । यः । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१९॥
अष्टऽअधा । युक्तः । वहति । वह्निः । उग्रः । पिता । देवानाम् । जनिता । मतीनाम् । ऋतस्य । तन्तुम् । मनसा । मिमानः । सर्वाः । दिशः । पवते । मातरिश्वा । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आगः । यः । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१९॥