ऋषिः - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा कृतिः
स्वरः - अध्यात्म सूक्त
येन॑ । आ॒दि॒त्यान् । ह॒रित॑ः । स॒म्ऽवह॑न्ति । येन॑ । य॒ज्ञेन॑ । ब॒हव॑ः । यन्ति॑ । प्र॒ऽजा॒नन्त॑ः । यत् । एक॑म् । ज्योति॑ः । ब॒हु॒ऽधा । वि॒ऽभाति॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑ः । यः । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१७॥
येन । आदित्यान् । हरितः । सम्ऽवहन्ति । येन । यज्ञेन । बहवः । यन्ति । प्रऽजानन्तः । यत् । एकम् । ज्योतिः । बहुऽधा । विऽभाति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आगः । यः । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१७॥