atharvaveda/13/3/16

शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्। यस्यो॒र्ध्वा दिवं॑ त॒न्वस्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

शु॒क्रम् । व॒ह॒न्ति॒ । हर॑य: । र॒घु॒ऽस्यद॑: । दे॒वम् । दि॒वि । वर्च॑सा । भ्राज॑मानम् । यस्य॑ । ऊ॒र्ध्वा: । दिव॑म् । त॒न्व᳡: । तप॑न्ति । अ॒र्वाङ् । सु॒ऽवर्णै॑: । प॒ट॒रै: । वि । भा॒ति॒ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न्। ॥२.१६॥

ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - चतुरवसानाष्टपदाकृतिः

स्वरः - अध्यात्म सूक्त

स्वर सहित मन्त्र

शु॒क्रं व॑हन्ति॒ हर॑यो रघु॒ष्यदो॑ दे॒वं दि॒वि वर्च॑सा॒ भ्राज॑मानम्। यस्यो॒र्ध्वा दिवं॑ त॒न्वस्तप॑न्त्य॒र्वाङ्सु॒वर्णैः॑ पट॒रैर्वि भाति॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

स्वर सहित पद पाठ

शु॒क्रम् । व॒ह॒न्ति॒ । हर॑य: । र॒घु॒ऽस्यद॑: । दे॒वम् । दि॒वि । वर्च॑सा । भ्राज॑मानम् । यस्य॑ । ऊ॒र्ध्वा: । दिव॑म् । त॒न्व᳡: । तप॑न्ति । अ॒र्वाङ् । सु॒ऽवर्णै॑: । प॒ट॒रै: । वि । भा॒ति॒ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न्। ॥२.१६॥


स्वर रहित मन्त्र

शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम्। यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥


स्वर रहित पद पाठ

शुक्रम् । वहन्ति । हरय: । रघुऽस्यद: । देवम् । दिवि । वर्चसा । भ्राजमानम् । यस्य । ऊर्ध्वा: । दिवम् । तन्व᳡: । तपन्ति । अर्वाङ् । सुऽवर्णै: । पटरै: । वि । भाति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान्। ॥२.१६॥