ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

उत्के॒तुना॑ बृह॒ता दे॒व आग॒न्नपा॑वृ॒क्तमो॒ऽभि ज्योति॑रश्रैत्। दि॒व्यः सु॑प॒र्णः स वी॒रो व्यख्य॒ददि॑तेः पु॒त्रो भुव॑नानि॒ विश्वा॑ ॥

स्वर सहित पद पाठ

उत् । के॒तुना॑ । बृ॒ह॒ता । दे॒वः । आ । अ॒ग॒न् । अप॑ । अ॒वृ॒क् । तम॑ः । अ॒भि । ज्योति॑ः । अ॒श्रै॒त् । दि॒व्यः । सु॒ऽप॒र्णः । सः । वी॒रः । वि । अ॒ख्य॒त् । अदि॑तेः । पु॒त्रः । भुव॑नानि । विश्वा॑ ॥2.९॥


स्वर रहित मन्त्र

उत्केतुना बृहता देव आगन्नपावृक्तमोऽभि ज्योतिरश्रैत्। दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥


स्वर रहित पद पाठ

उत् । केतुना । बृहता । देवः । आ । अगन् । अप । अवृक् । तमः । अभि । ज्योतिः । अश्रैत् । दिव्यः । सुऽपर्णः । सः । वीरः । वि । अख्यत् । अदितेः । पुत्रः । भुवनानि । विश्वा ॥2.९॥