ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - जगती

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒प्त सूर्यो॑ ह॒रितो॒ यात॑वे॒ रथे॒ हिर॑ण्यत्वचसो बृह॒तीर॑युक्त। अमो॑चि शु॒क्रो रज॑सः प॒रस्ता॑द्वि॒धूय॑ दे॒वस्तमो॒ दिव॒मारु॑हत् ॥

स्वर सहित पद पाठ

स॒प्त । सूर्य॑ः । ह॒रित॑ः । यात॑वे । रथे॑ । हिर॑ण्यऽत्वचसः । बृ॒ह॒तीः । अ॒यु॒क्त॒ । अमो॑चि । शु॒क्रः । रज॑सः । प॒रस्ता॑त् । वि॒ऽधूय॑ । दे॒वः । तम॑ः । दिव॑म् । आ । अ॒रु॒ह॒त्॥2.८॥


स्वर रहित मन्त्र

सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त। अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत् ॥


स्वर रहित पद पाठ

सप्त । सूर्यः । हरितः । यातवे । रथे । हिरण्यऽत्वचसः । बृहतीः । अयुक्त । अमोचि । शुक्रः । रजसः । परस्तात् । विऽधूय । देवः । तमः । दिवम् । आ । अरुहत्॥2.८॥