ऋषिः - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुष्पदा पुरःशाक्वरा भुरिग्जगती
स्वरः - अध्यात्म सूक्त
पृ॒थि॒वी॒ऽप्रः । म॒हि॒षः । नाध॑मानस्य । गा॒तुः । अद॑ब्धऽचक्षुः । परि॑ । विश्व॑म् । ब॒भूव॑ । विश्व॑म् । स॒म्ऽपश्य॑न् । सु॒ऽवि॒दत्र॑ः । यज॑त्रः । इ॒दम् । शृ॒णो॒तु॒ । यत् । अ॒हम् । ब्रवी॑मि ॥२.४४॥
पृथिवीऽप्रः । महिषः । नाधमानस्य । गातुः । अदब्धऽचक्षुः । परि । विश्वम् । बभूव । विश्वम् । सम्ऽपश्यन् । सुऽविदत्रः । यजत्रः । इदम् । शृणोतु । यत् । अहम् । ब्रवीमि ॥२.४४॥