ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

रोहि॑तो लो॒को अ॑भव॒द्रोहि॒तोऽत्य॑तप॒द्दिव॑म्। रोहि॑तो र॒श्मिभि॒र्भूमिं॑ समु॒द्रमनु॒ सं च॑रत् ॥

स्वर सहित पद पाठ

रोहि॑तः । लो॒कः । अ॒भ॒व॒त् । रोहि॑तः । अति॑ । अ॒त॒प॒त् । दिव॑म् । रोहि॑तः । र॒श्मिऽभि॑ः । भूमि॑म् । स॒मु॒द्रम् । अनु॑ । सम् । च॒र॒त् ॥२.४०॥


स्वर रहित मन्त्र

रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम्। रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् ॥


स्वर रहित पद पाठ

रोहितः । लोकः । अभवत् । रोहितः । अति । अतपत् । दिवम् । रोहितः । रश्मिऽभिः । भूमिम् । समुद्रम् । अनु । सम् । चरत् ॥२.४०॥