ऋषिः - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - पञ्चपदा विराड्जगती
स्वरः - अध्यात्म सूक्त
दि॒वः । पृ॒ष्ठे । धाव॑मानम् । सु॒ऽप॒र्णम् । अदि॑त्याः । पु॒त्रम् । ना॒थऽका॑मः । उप॑ । या॒मि॒ । भी॒तः । सः । न॒ः । सू॒र्य॒ । प्र । ति॒र॒ । दी॒र्घम् । आयु॑ः । मा । रि॒षा॒म॒ । सु॒ऽम॒तौ । ते॒ । स्या॒म॒ ॥२.३७॥
दिवः । पृष्ठे । धावमानम् । सुऽपर्णम् । अदित्याः । पुत्रम् । नाथऽकामः । उप । यामि । भीतः । सः । नः । सूर्य । प्र । तिर । दीर्घम् । आयुः । मा । रिषाम । सुऽमतौ । ते । स्याम ॥२.३७॥