ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

उ॒च्चा पत॑न्तमरु॒णं सु॑प॒र्णं मध्ये॑ दि॒वस्त॒रणिं॒ भ्राज॑मानम्। पश्या॑म त्वा सवि॒तारं॒ यमा॒हुरज॑स्रं॒ ज्योति॒र्यद॑विन्द॒दत्त्रिः॑ ॥

स्वर सहित पद पाठ

उ॒च्चा । पत॑न्तम् । अ॒रु॒णम् । सु॒ऽप॒र्णम् । मध्ये॑ । दि॒वः । त॒रणि॑म् । भ्राज॑मानम् । पश्या॑म । त्वा॒ । स॒वि॒तार॑म् । यम् । आ॒हुः । अज॑स्रम् । ज्योति॑ः । यत् । अवि॑न्दत् । अत्त्रि॑ः ॥२.३६॥


स्वर रहित मन्त्र

उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम्। पश्याम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥


स्वर रहित पद पाठ

उच्चा । पतन्तम् । अरुणम् । सुऽपर्णम् । मध्ये । दिवः । तरणिम् । भ्राजमानम् । पश्याम । त्वा । सवितारम् । यम् । आहुः । अजस्रम् । ज्योतिः । यत् । अविन्दत् । अत्त्रिः ॥२.३६॥