ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

ति॒ग्मो वि॒भ्राज॑न्त॒न्वं शिशा॑नोऽरंग॒मासः॑ प्र॒वतो॒ ररा॑णः। ज्योति॑ष्मान्प॒क्षी म॑हि॒षो व॑यो॒धा विश्वा॒ आस्था॑त्प्र॒दिशः॒ कल्प॑मानः ॥

स्वर सहित पद पाठ

ति॒ग्मः । वि॒ऽभ्राज॑न् । त॒न्व᳡म् । शिशा॑नः । अ॒र॒म्ऽग॒मास॑ः । प्र॒ऽवत॑ः । ररा॑णः । ज्योति॑ष्मान् । प॒क्षी । म॒हि॒षः । व॒य॒ःऽधाः । विश्वा॑ः । आ । अ॒स्था॒त् । प्र॒ऽदिश॑ः । कल्प॑मानः ॥२.३३॥


स्वर रहित मन्त्र

तिग्मो विभ्राजन्तन्वं शिशानोऽरंगमासः प्रवतो रराणः। ज्योतिष्मान्पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥


स्वर रहित पद पाठ

तिग्मः । विऽभ्राजन् । तन्व᳡म् । शिशानः । अरम्ऽगमासः । प्रऽवतः । रराणः । ज्योतिष्मान् । पक्षी । महिषः । वयःऽधाः । विश्वाः । आ । अस्थात् । प्रऽदिशः । कल्पमानः ॥२.३३॥