ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒र्वाङ्प॒रस्ता॒त्प्रय॑तो व्य॒ध्व आ॒शुर्वि॑प॒श्चित्प॒तय॑न्पत॒ङ्गः। विष्णु॒र्विचि॑त्तः॒ शव॑साधि॒तिष्ठ॒न्प्र के॒तुना॑ सहते॒ विश्व॒मेज॑त् ॥

स्वर सहित पद पाठ

अ॒र्वाङ् । प॒रस्ता॑त् । प्रऽय॑तः । वि॒ऽअ॒ध्वे । आ॒शुः । वि॒प॒ःऽचित् । प॒तय॑न् । प॒त॒ङ् । विष्णु॑ः । विऽचि॑त्तः । शव॑सा । अ॒धि॒ऽतिष्ठ॑न् । प्र । के॒तुना॑ । स॒ह॒ते॒ । विश्व॑म् । एज॑त् ॥२.३१॥


स्वर रहित मन्त्र

अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन्पतङ्गः। विष्णुर्विचित्तः शवसाधितिष्ठन्प्र केतुना सहते विश्वमेजत् ॥


स्वर रहित पद पाठ

अर्वाङ् । परस्तात् । प्रऽयतः । विऽअध्वे । आशुः । विपःऽचित् । पतयन् । पतङ् । विष्णुः । विऽचित्तः । शवसा । अधिऽतिष्ठन् । प्र । केतुना । सहते । विश्वम् । एजत् ॥२.३१॥