ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - पञ्चपदोष्णिग्बृहतीगर्भातिजगती

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

रोच॑से दि॒वि रोच॑से अ॒न्तरि॑क्षे॒ पत॑ङ्ग पृथि॒व्यां रो॑चसे॒ रोच॑से अ॒प्स्वन्तः। उ॒भा स॑मु॒द्रौ रुच्या॒ व्यापिथ दे॒वो दे॑वासि महि॒षः स्व॒र्जित् ॥

स्वर सहित पद पाठ

रोच॑से । दि॒वि । रोच॑से । अ॒न्तरि॑क्षे । पत॑ङ् । पृ॒थि॒व्याम् । रोच॑से । रोच॑से । अ॒प्ऽसु । अ॒न्तः । उ॒भा । स॒मु॒द्रौ । रुच्या॑ । वि । आ॒पि॒थ॒ । दे॒वः । दे॒व । अ॒सि॒ । म॒हि॒षः । स्व॒ःऽजित् ॥२.३०॥


स्वर रहित मन्त्र

रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः। उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित् ॥


स्वर रहित पद पाठ

रोचसे । दिवि । रोचसे । अन्तरिक्षे । पतङ् । पृथिव्याम् । रोचसे । रोचसे । अप्ऽसु । अन्तः । उभा । समुद्रौ । रुच्या । वि । आपिथ । देवः । देव । असि । महिषः । स्वःऽजित् ॥२.३०॥