ऋषिः - ब्रह्मा

देवता - रोहितः, आदित्यः, अध्यात्मम्

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म सूक्त

PreviousNext
स्वर सहित मन्त्र

अत॑न्द्रो या॒स्यन्ह॒रितो॒ यदास्था॒द्द्वे रू॒पे कृ॑णुते॒ रोच॑मानः। के॑तु॒मानु॒द्यन्त्सह॑मानो॒ रजां॑सि॒ विश्वा॑ आदित्य प्र॒वतो॒ वि भा॑सि ॥

स्वर सहित पद पाठ

अत॑न्द्रः । या॒स्यन् । ह॒रित॑ः । यत् । आ॒ऽअस्था॑त् । द्वे इति॑ । रू॒पे इति॑ । कृ॒णु॒ते॒ । रोच॑मानः । के॒तु॒ऽमान् । उ॒त्ऽयन् । सह॑मानः । रजां॑सि। विश्वा॑ः । आ॒द‍ि॒त्य॒ः । प्र॒ऽवत॑ः। वि । भा॒सि॒॥२.२८॥


स्वर रहित मन्त्र

अतन्द्रो यास्यन्हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः। केतुमानुद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥


स्वर रहित पद पाठ

अतन्द्रः । यास्यन् । हरितः । यत् । आऽअस्थात् । द्वे इति । रूपे इति । कृणुते । रोचमानः । केतुऽमान् । उत्ऽयन् । सहमानः । रजांसि। विश्वाः । आद‍ित्यः । प्रऽवतः। वि । भासि॥२.२८॥