ऋषिः - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
स्वरः - अध्यात्म प्रकरण सूक्त
याः । ते॒ । रुह॑ः । प्र॒ऽरुह॑ः । याः । ते॒ । आ॒ऽरुह॑ः । याभि॑ः । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । तासा॑म् । ब्रह्म॑णा । पय॑सा । व॒वृ॒धा॒नः । वि॒शि । रा॒ष्ट्रे । जा॒गृ॒हि॒ । रोहि॑तस्य ॥१.९॥
याः । ते । रुहः । प्रऽरुहः । याः । ते । आऽरुहः । याभिः । आऽपृणासि । दिवम् । अन्तरिक्षम् । तासाम् । ब्रह्मणा । पयसा । ववृधानः । विशि । राष्ट्रे । जागृहि । रोहितस्य ॥१.९॥