ऋषिः - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
स्वरः - अध्यात्म प्रकरण सूक्त
रोहि॑तः । द्यावा॑पृथि॒वी इति॑ । अ॒दृं॒ह॒त् । तेन॑ । स्व᳡ः । स्त॒भि॒तम् । तेन॑ । नाक॑ः । तेन॑ । अ॒न्तरि॑क्षम् । विऽमि॑ता । रजां॑सि । तेन॑ । दे॒वाः । अ॒मृत॑म् । अनु॑ । अ॒वि॒न्द॒न् ॥१.७॥
रोहितः । द्यावापृथिवी इति । अदृंहत् । तेन । स्व᳡ः । स्तभितम् । तेन । नाकः । तेन । अन्तरिक्षम् । विऽमिता । रजांसि । तेन । देवाः । अमृतम् । अनु । अविन्दन् ॥१.७॥