ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - ककुम्मती बृहतीगर्भा पथ्यापङ्क्तिः

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत। तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥

स्वर सहित पद पाठ

सः । य॒ज्ञः । प्र॒थ॒मः । भू॒तः । भव्य॑ः । अ॒जा॒य॒त॒ । तस्मा॑त् । ह॒ । ज॒ज्ञे॒ । इ॒दम् । सर्व॑म् । यत् । किम् । च॒ । इ॒दम् । वि॒ऽरो॑चते । रोहि॑तेन । ऋषि॑णा । आऽभृ॑तम् ॥१.५५॥


स्वर रहित मन्त्र

स यज्ञः प्रथमो भूतो भव्यो अजायत। तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥


स्वर रहित पद पाठ

सः । यज्ञः । प्रथमः । भूतः । भव्यः । अजायत । तस्मात् । ह । जज्ञे । इदम् । सर्वम् । यत् । किम् । च । इदम् । विऽरोचते । रोहितेन । ऋषिणा । आऽभृतम् ॥१.५५॥