ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

स॒त्ये अ॒न्यः स॒माहि॑तो॒ऽप्स्वन्यः समि॑ध्यते। ब्रह्मे॑द्धाव॒ग्नी ई॑जाते॒ रोहि॑तस्य स्व॒र्विदः॑ ॥

स्वर सहित पद पाठ

स॒त्ये । अ॒न्यः । स॒म्ऽआहि॑तः । अ॒प्ऽसु । अ॒न्यः । सम् । इ॒ध्य॒ते॒ । ब्रह्म॑ऽइध्दौ । अ॒ग्नी इति॑ । ई॒जा॒ते॒ इति॑ । रोहि॑तस्य । स्व॒ःऽविद॑ः ॥१.५०॥


स्वर रहित मन्त्र

सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते। ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥


स्वर रहित पद पाठ

सत्ये । अन्यः । सम्ऽआहितः । अप्ऽसु । अन्यः । सम् । इध्यते । ब्रह्मऽइध्दौ । अग्नी इति । ईजाते इति । रोहितस्य । स्वःऽविदः ॥१.५०॥