ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - जगती

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्यास्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥

स्वर सहित पद पाठ

आ । ते॒ । रा॒ष्ट्रम् । इ॒ह । रोहि॑तः । अ॒हा॒र्षी॒त् । वि । आ॒स्थ॒त् । मृध॑ः । अभ॑यम् । ते॒ । अ॒भू॒त् । तस्मै॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । रे॒वती॑भिः । काम॑म् । दु॒हा॒था॒म् । इ॒ह । शक्व॑रीभिः ॥१.५॥


स्वर रहित मन्त्र

आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन्मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाथामिह शक्वरीभिः ॥


स्वर रहित पद पाठ

आ । ते । राष्ट्रम् । इह । रोहितः । अहार्षीत् । वि । आस्थत् । मृधः । अभयम् । ते । अभूत् । तस्मै । ते । द्यावापृथिवी इति । रेवतीभिः । कामम् । दुहाथाम् । इह । शक्वरीभिः ॥१.५॥