ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - अनुष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

सूर्यो॒ द्यां सूर्यः॑ पृथि॒वीं सूर्य॒ आपोऽति॑ पश्यति। सूर्यो॑ भू॒तस्यैकं॒ चक्षु॒रा रु॑रोह॒ दिवं॑ म॒हीम् ॥

स्वर सहित पद पाठ

सूर्य॑ः । द्याम् । सूर्य॑ः । पृ॒थि॒वीम् । सूर्य॑ः । आप॑ः । अति॑ । प॒श्य॒ति॒ । सूर्य॑ः । भू॒तस्य॑ । एक॑म् । चक्षु॑ः । आ । रु॒रो॒ह॒ । दिव॑म् । म॒हीम् ॥१.४५॥


स्वर रहित मन्त्र

सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपोऽति पश्यति। सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥


स्वर रहित पद पाठ

सूर्यः । द्याम् । सूर्यः । पृथिवीम् । सूर्यः । आपः । अति । पश्यति । सूर्यः । भूतस्य । एकम् । चक्षुः । आ । रुरोह । दिवम् । महीम् ॥१.४५॥