ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - विराण्महाबृहती

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

आ॒रोह॒न्द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑। उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ॥

स्वर सहित पद पाठ

आ॒ऽरोह॑न् । द्याम् । अ॒मृत॑ः । प्र । अ॒व॒ । मे॒ । वच॑ः । उत् । त्वा॒ । य॒ज्ञाः । ब्रह्म॑ऽपूताः । व॒ह॒न्ति॒ । अ॒ध्व॒ऽगत॑ः । हर॑यः । त्वा॒ । व॒ह॒न्ति॒ ॥१.४३॥


स्वर रहित मन्त्र

आरोहन्द्याममृतः प्राव मे वचः। उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥


स्वर रहित पद पाठ

आऽरोहन् । द्याम् । अमृतः । प्र । अव । मे । वचः । उत् । त्वा । यज्ञाः । ब्रह्मऽपूताः । वहन्ति । अध्वऽगतः । हरयः । त्वा । वहन्ति ॥१.४३॥