ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - जगती

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म्। ताभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न्षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑ ॥

स्वर सहित पद पाठ

रुह॑ः । रु॒रो॒ह॒ । रोहि॑तः । आ । रु॒रो॒ह॒ । गर्भ॑ः । जनी॑नाम् । ज॒नुषा॑म् । उ॒पऽस्थ॑म् । ताभि॑ः । सम्ऽर॑ब्धम् । अनु॑ । अ॒वि॒न्द॒न् । षट् । उ॒र्वीः । गा॒तुम् । प्र॒ऽपश्य॑न् । इ॒ह । रा॒ष्ट्रम् । आ । अ॒हा॒ः ॥१.४॥


स्वर रहित मन्त्र

रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम्। ताभिः संरब्धमन्वविन्दन्षडुर्वीर्गातुं प्रपश्यन्निह राष्ट्रमाहाः ॥


स्वर रहित पद पाठ

रुहः । रुरोह । रोहितः । आ । रुरोह । गर्भः । जनीनाम् । जनुषाम् । उपऽस्थम् । ताभिः । सम्ऽरब्धम् । अनु । अविन्दन् । षट् । उर्वीः । गातुम् । प्रऽपश्यन् । इह । राष्ट्रम् । आ । अहाः ॥१.४॥