ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

य॒शा या॑सि प्र॒दिशो॒ दिश॑श्च य॒शाः प॑शू॒नामु॒त च॑र्षणी॒नाम्। य॒शाः पृ॑थि॒व्या अदि॑त्या उ॒पस्थे॒ऽहं भू॑यासं सवि॒तेव॒ चारुः॑ ॥

स्वर सहित पद पाठ

य॒शाः । या॒सि॒ । प्र॒ऽदिश॑ः । दिश॑ः ।च॒ । य॒शाः । प॒शू॒नाम् । उ॒त । च॒र्ष॒णी॒नाम् । य॒शाः । पृ॒थि॒व्याः । अदि॑त्याः । उ॒पऽस्थे॑ । भू॒या॒स॒म् । स॒वि॒ताऽइ॑व । चारु॑ः ॥१.३८॥


स्वर रहित मन्त्र

यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम्। यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥


स्वर रहित पद पाठ

यशाः । यासि । प्रऽदिशः । दिशः ।च । यशाः । पशूनाम् । उत । चर्षणीनाम् । यशाः । पृथिव्याः । अदित्याः । उपऽस्थे । भूयासम् । सविताऽइव । चारुः ॥१.३८॥