ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - उपरिष्टाद्विराड्बृहती

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥

स्वर सहित पद पाठ

ये । दे॒वाः । रा॒ष्ट्र॒ऽभृत॑ः । अ॒भित॑ः । यन्ति॑ । सूर्य॑म् । तैः । ते॒ । रोहि॑तः । स॒म्ऽवि॒दा॒नः । रा॒ष्ट्रम् । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑नः ॥१.३५॥


स्वर रहित मन्त्र

ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम्। तैष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः ॥


स्वर रहित पद पाठ

ये । देवाः । राष्ट्रऽभृतः । अभितः । यन्ति । सूर्यम् । तैः । ते । रोहितः । सम्ऽविदानः । राष्ट्रम् । दधातु । सुऽमनस्यमानः ॥१.३५॥