ऋषिः - ब्रह्मा

देवता - अग्नि

छन्दः - भुरिगनुष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः। अ॑भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न्हन्तु॒ ये मम॑ ॥

स्वर सहित पद पाठ

सम्ऽइ॑ध्दः । अ॒ग्निः । स॒म्ऽइ॒धा॒नः । घृ॒तऽवृ॑ध्दः । घृ॒तऽआ॑हुतः । अ॒भी॒षाट् । वि॒श्वा॒षाट् । अ॒ग्निः । स॒ऽपत्ना॑न् । ह॒न्तु॒ । ये । मम॑ ॥१.२८॥


स्वर रहित मन्त्र

समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः। अभीषाड् विश्वाषाडग्निः सपत्नान्हन्तु ये मम ॥


स्वर रहित पद पाठ

सम्ऽइध्दः । अग्निः । सम्ऽइधानः । घृतऽवृध्दः । घृतऽआहुतः । अभीषाट् । विश्वाषाट् । अग्निः । सऽपत्नान् । हन्तु । ये । मम ॥१.२८॥