ऋषिः - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
स्वरः - अध्यात्म प्रकरण सूक्त
वि । मि॒मी॒ष्व॒ । पय॑स्वतीम् । घृ॒ताची॑म् । दे॒वाना॑म् । धे॒नुः । अन॑पऽस्पृक् । ए॒षा । इन्द्र॑ः ।सोम॑म् । पि॒ब॒तु॒ । क्षेम॑ः । अ॒स्तु॒ । अ॒ग्निः । प्र । स्तौ॒तु॒ । वि । मृध॑ः । नु॒द॒स्व॒ ॥१.२७॥
वि । मिमीष्व । पयस्वतीम् । घृताचीम् । देवानाम् । धेनुः । अनपऽस्पृक् । एषा । इन्द्रः ।सोमम् । पिबतु । क्षेमः । अस्तु । अग्निः । प्र । स्तौतु । वि । मृधः । नुदस्व ॥१.२७॥