atharvaveda/13/1/27

वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥

वि । मि॒मी॒ष्व॒ । पय॑स्वतीम् । घृ॒ताची॑म् । दे॒वाना॑म् । धे॒नु: । अन॑पऽस्पृक् । ए॒षा । इन्द्र॑: ।सोम॑म् । पि॒ब॒तु॒ । क्षेम॑: । अ॒स्तु॒ । अ॒ग्नि: । प्र । स्तौ॒तु॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥१.२७॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥

स्वर सहित पद पाठ

वि । मि॒मी॒ष्व॒ । पय॑स्वतीम् । घृ॒ताची॑म् । दे॒वाना॑म् । धे॒नु: । अन॑पऽस्पृक् । ए॒षा । इन्द्र॑: ।सोम॑म् । पि॒ब॒तु॒ । क्षेम॑: । अ॒स्तु॒ । अ॒ग्नि: । प्र । स्तौ॒तु॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥१.२७॥


स्वर रहित मन्त्र

वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा। इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥


स्वर रहित पद पाठ

वि । मिमीष्व । पयस्वतीम् । घृताचीम् । देवानाम् । धेनु: । अनपऽस्पृक् । एषा । इन्द्र: ।सोमम् । पिबतु । क्षेम: । अस्तु । अग्नि: । प्र । स्तौतु । वि । मृध: । नुदस्व ॥१.२७॥