ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्। घृ॑त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ॥

स्वर सहित पद पाठ

सूर्य॑स्य । अश्वा॑ः । हर॑यः । के॒तु॒ऽमन्त॑ः । सदा॑ । व॒ह॒न्ति॒ । अ॒मृता॑ः । सु॒ऽखम् । रथ॑म् । घृ॒त॒ऽपावा॑ । रोहि॑तः । भ्राज॑मानाः । दिव॑म् । दे॒वः । पृष॑तीम् । आ । वि॒वे॒श॒ ॥१.२४॥


स्वर रहित मन्त्र

सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम्। घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥


स्वर रहित पद पाठ

सूर्यस्य । अश्वाः । हरयः । केतुऽमन्तः । सदा । वहन्ति । अमृताः । सुऽखम् । रथम् । घृतऽपावा । रोहितः । भ्राजमानाः । दिवम् । देवः । पृषतीम् । आ । विवेश ॥१.२४॥