ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

उद्वाज॒ आ ग॒न्यो अ॒प्स्वन्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः। सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्चतु॑ष्पदो द्वि॒पद॒ आ वे॑शये॒ह ॥

स्वर सहित पद पाठ

उत् । वाज॑ः । आ । ग॒न् । यः । अ॒प्ऽसु । अ॒न्तः । विश॑ः । आ । रो॒ह॒ । त्वत्ऽयो॑नयः । याः । सोम॑म् । दधा॑नः । अ॒पः । ओष॑धीः । गाः । चतु॑ःऽपदः । द्वि॒ऽपद॑ः । आ । वे॒श॒य॒ । इह॥१.२॥


स्वर रहित मन्त्र

उद्वाज आ गन्यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः। सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥


स्वर रहित पद पाठ

उत् । वाजः । आ । गन् । यः । अप्ऽसु । अन्तः । विशः । आ । रोह । त्वत्ऽयोनयः । याः । सोमम् । दधानः । अपः । ओषधीः । गाः । चतुःऽपदः । द्विऽपदः । आ । वेशय । इह॥१.२॥