ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - पञ्चपदा ककुम्मती जगती

स्वरः - अध्यात्म प्रकरण सूक्त

PreviousNext
स्वर सहित मन्त्र

वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥

स्वर सहित पद पाठ

वाच॑ः । प॒ते॒ । पृ॒थि॒वी । न॒ः । स्यो॒ना । स्यो॒नाः । योनि॑ः । तल्पा॑ । न॒ः । सु॒ऽशेवा॑ । इ॒ह । ए॒व । प्रा॒णः । स॒ख्ये । न॒ः । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न्। परि॑ । अ॒ग्निः ।आयु॑षा । वर्च॑सा । द॒धा॒तु॒ ॥१.१७॥


स्वर रहित मन्त्र

वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यग्निरायुषा वर्चसा दधातु ॥


स्वर रहित पद पाठ

वाचः । पते । पृथिवी । नः । स्योना । स्योनाः । योनिः । तल्पा । नः । सुऽशेवा । इह । एव । प्राणः । सख्ये । नः । अस्तु । तम् । त्वा । परमेऽस्थिन्। परि । अग्निः ।आयुषा । वर्चसा । दधातु ॥१.१७॥