atharvaveda/13/1/10

यास्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑। तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्येतु॒ रोहि॑तः ॥

या: । ते॒ । विश॑: । तप॑स: । स॒म्ऽब॒भू॒वु: । व॒त्सम् । गा॒य॒त्रीम् । अनु॑ । ता: । इ॒ह । आ । अ॒गु॒: । ता: । त्वा॒ । आ । वि॒श॒न्तु॒ । मन॑सा । शि॒वेन॑ । सम्ऽमा॑ता । व॒त्स: । अ॒भि । ए॒तु॒ । रोहि॑त: ॥१.१०॥

ऋषिः - ब्रह्मा

देवता - अध्यात्मम्, रोहितः, आदित्यः

छन्दः - त्रिष्टुप्

स्वरः - अध्यात्म प्रकरण सूक्त

स्वर सहित मन्त्र

यास्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑। तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्येतु॒ रोहि॑तः ॥

स्वर सहित पद पाठ

या: । ते॒ । विश॑: । तप॑स: । स॒म्ऽब॒भू॒वु: । व॒त्सम् । गा॒य॒त्रीम् । अनु॑ । ता: । इ॒ह । आ । अ॒गु॒: । ता: । त्वा॒ । आ । वि॒श॒न्तु॒ । मन॑सा । शि॒वेन॑ । सम्ऽमा॑ता । व॒त्स: । अ॒भि । ए॒तु॒ । रोहि॑त: ॥१.१०॥


स्वर रहित मन्त्र

यास्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः। तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥


स्वर रहित पद पाठ

या: । ते । विश: । तपस: । सम्ऽबभूवु: । वत्सम् । गायत्रीम् । अनु । ता: । इह । आ । अगु: । ता: । त्वा । आ । विशन्तु । मनसा । शिवेन । सम्ऽमाता । वत्स: । अभि । एतु । रोहित: ॥१.१०॥