ऋषिः - कश्यपः
देवता - वशा
छन्दः - अनुष्टुप्
स्वरः - वशा गौ सूक्त
यत् । अ॒स्या॒ः । गोऽप॑तौ । स॒त्याः । लोम॑ । ध्वाङ्क्ष॑ः । अजी॑हिडत् । तत॑ः । कु॒मा॒राः । म्रि॒य॒न्ते॒ । यक्ष्म॑ः । वि॒न्द॒ति॒ । अ॒ना॒म॒नात् ॥४.८॥
यत् । अस्याः । गोऽपतौ । सत्याः । लोम । ध्वाङ्क्षः । अजीहिडत् । ततः । कुमाराः । म्रियन्ते । यक्ष्मः । विन्दति । अनामनात् ॥४.८॥