ऋषिः - कश्यपः

देवता - वशा

छन्दः - भुरिगनुष्टुप्

स्वरः - वशा गौ सूक्त

PreviousNext
स्वर सहित मन्त्र

यद॑स्याः॒ कस्मै॑ चि॒द्भोगा॑य॒ बाला॒न्कश्चि॑त्प्रकृ॒न्तति॑। ततः॑ किशो॒रा म्रि॑यन्ते व॒त्सांश्च॒ घातु॑को॒ वृकः॑ ॥

स्वर सहित पद पाठ

यत्। अ॒स्या॒ः । कस्मै॑ । चि॒त् । भोगा॑य । बाला॑न् । कः । चि॒त् । प्र॒ऽकृ॒न्तति॑ । तत॑ः । कि॒शो॒राः । म्रि॒य॒न्ते॒ । व॒त्सान्। च॒ । घातु॑कः । वृक॑ः ॥४.७॥


स्वर रहित मन्त्र

यदस्याः कस्मै चिद्भोगाय बालान्कश्चित्प्रकृन्तति। ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥


स्वर रहित पद पाठ

यत्। अस्याः । कस्मै । चित् । भोगाय । बालान् । कः । चित् । प्रऽकृन्तति । ततः । किशोराः । म्रियन्ते । वत्सान्। च । घातुकः । वृकः ॥४.७॥