ऋषिः - कश्यपः
देवता - वशा
छन्दः - अनुष्टुप्
स्वरः - वशा गौ सूक्त
ये । व॒शाया॑ः । अदा॑नाय । वद॑न्ति । प॒रि॒ऽरा॒पिण॑ः । इन्द्र॑स्य । म॒न्यवे॑ । जा॒ल्माः । आ । वृ॒श्च॒न्ते॒ । अचि॑त्त्या ॥४.५१॥
ये । वशायाः । अदानाय । वदन्ति । परिऽरापिणः । इन्द्रस्य । मन्यवे । जाल्माः । आ । वृश्चन्ते । अचित्त्या ॥४.५१॥