ऋषिः - कश्यपः
देवता - वशा
छन्दः - अनुष्टुप्
स्वरः - वशा गौ सूक्त
उ॒त । ए॒ना॒म् । भे॒दः । न । अ॒द॒दा॒त् । व॒शाम् । इन्द्रे॑ण । या॒चि॒तः । तस्मा॑त् । तम् । दे॒वाः । आग॑सः । अवृ॑श्चन् । अ॒ह॒म्ऽउ॒त्त॒रे ॥४.५०॥
उत । एनाम् । भेदः । न । अददात् । वशाम् । इन्द्रेण । याचितः । तस्मात् । तम् । देवाः । आगसः । अवृश्चन् । अहम्ऽउत्तरे ॥४.५०॥