ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशा गौ सूक्त

PreviousNext
स्वर सहित मन्त्र

प॒दोर॑स्या अधि॒ष्ठाना॑द्वि॒क्लिन्दु॒र्नाम॑ विन्दति। अ॑नाम॒नात्सं शी॑र्यन्ते॒ या मुखे॑नोप॒जिघ्र॑ति ॥

स्वर सहित पद पाठ

प॒दोः । अ॒स्या॒ः । अ॒धि॒ऽस्थाना॑त् । वि॒ऽक्लिन्दु॑ः । नाम॑ । वि॒न्द॒ति॒ । अ॒ना॒म॒नात् । सम् । शी॒र्य॒न्ते॒ । याः । मुखे॑न । उ॒प॒ऽजिघ्र॑ति ॥४.५॥


स्वर रहित मन्त्र

पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति। अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥


स्वर रहित पद पाठ

पदोः । अस्याः । अधिऽस्थानात् । विऽक्लिन्दुः । नाम । विन्दति । अनामनात् । सम् । शीर्यन्ते । याः । मुखेन । उपऽजिघ्रति ॥४.५॥