ऋषिः - कश्यपः

देवता - वशा

छन्दः - अनुष्टुप्

स्वरः - वशा गौ सूक्त

PreviousNext
स्वर सहित मन्त्र

यो अ॑स्या॒ ऋच॑ उप॒श्रुत्याथ॒ गोष्वची॑चरत्। आयु॑श्च॒ तस्य॒ भूतिं॑ च दे॒वा वृ॑श्चन्ति हीडि॒ताः ॥

स्वर सहित पद पाठ

यः । अ॒स्या॒ः । ऋच॑ः । उ॒प॒ऽश्रुत्य॑ । अथ॑ । गोषु॑ । अची॑चरत् । आयु॑ः । च॒ । तस्य॑ । भूति॑म् । च॒ । दे॒वाः । वृ॒श्च॒न्ति॒ । ही॒डि॒ताः ॥४.२८॥


स्वर रहित मन्त्र

यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्। आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥


स्वर रहित पद पाठ

यः । अस्याः । ऋचः । उपऽश्रुत्य । अथ । गोषु । अचीचरत् । आयुः । च । तस्य । भूतिम् । च । देवाः । वृश्चन्ति । हीडिताः ॥४.२८॥