ऋषिः - कश्यपः
देवता - वशा
छन्दः - अनुष्टुप्
स्वरः - वशा गौ सूक्त
यत् । अ॒न्ये । श॒तम् । याचे॑युः । ब्रा॒ह्म॒णाः । गोऽप॑तिम् । व॒शाम् । अथ॑ । ए॒ना॒म् । दे॒वाः । अ॒ब्रु॒व॒न् । ए॒वम् । ह॒ । वि॒दुष॑ः । व॒शा॥४.२२॥
यत् । अन्ये । शतम् । याचेयुः । ब्राह्मणाः । गोऽपतिम् । वशाम् । अथ । एनाम् । देवाः । अब्रुवन् । एवम् । ह । विदुषः । वशा॥४.२२॥