ऋषिः - कश्यपः
देवता - वशा
छन्दः - अनुष्टुप्
स्वरः - वशा गौ सूक्त
प्र॒ऽजया॑ । सः । वि । क्री॒णी॒ते॒ । प॒शुऽभि॑ः । च॒ । उप॑ । द॒स्य॒ति॒ । यः । आ॒र्षे॒येभ्य॑ः । याच॑त्ऽभ्यः । दे॒वाना॑म् । गाम् । न । दित्स॑ति ॥४.२॥
प्रऽजया । सः । वि । क्रीणीते । पशुऽभिः । च । उप । दस्यति । यः । आर्षेयेभ्यः । याचत्ऽभ्यः । देवानाम् । गाम् । न । दित्सति ॥४.२॥