ऋषिः - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्र्यवसाना सप्तपदा शङ्कुमत्यतिजागतशाक्वरातिशाक्वरधार्त्यगर्भातिधृतिः
स्वरः - स्वर्गौदन सूक्त
प्राच्यै॑ । त्वा॒ । दि॒शे । अ॒ग्नये॑ । अधि॑ऽपतये । अ॒सि॒ताय॑ । र॒क्षि॒त्रे । आ॒दि॒त्याय॑ । इषु॑ऽमते । ए॒तम् । परि॑। द॒द्म॒ः । तम् । न॒ः । गो॒पा॒य॒त॒ ।आ । अ॒स्माक॑म् । आऽए॑तोः । दि॒ष्टम् । न॒ः । अत्र॑ । ज॒रसे॑ । नि । ने॒ष॒त् । ज॒रा । मृ॒त्यवे॑ । परि॑ । न॒ः। द॒दा॒तु॒ । अथ॑ । प॒क्वेन॑ । स॒ह । सम् । भ॒वे॒म॒ ॥३.५५॥
प्राच्यै । त्वा । दिशे । अग्नये । अधिऽपतये । असिताय । रक्षित्रे । आदित्याय । इषुऽमते । एतम् । परि। दद्मः । तम् । नः । गोपायत ।आ । अस्माकम् । आऽएतोः । दिष्टम् । नः । अत्र । जरसे । नि । नेषत् । जरा । मृत्यवे । परि । नः। ददातु । अथ । पक्वेन । सह । सम् । भवेम ॥३.५५॥