ऋषिः - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
स्वरः - स्वर्गौदन सूक्त
सम् । अ॒ग्नय॑ः। वि॒दु॒ः । अ॒न्यः । अ॒न्यम् । यः । ओष॑धीः। सच॑ते । यः । च॒ । सिन्धू॑न् । याव॑न्तः। दे॒वाः । दि॒वि । आ॒ऽतप॑न्ति । हिर॑ण्यम् । ज्योति॑ः । पच॑तः । ब॒भू॒व॒ ॥३.५०॥
सम् । अग्नयः। विदुः । अन्यः । अन्यम् । यः । ओषधीः। सचते । यः । च । सिन्धून् । यावन्तः। देवाः । दिवि । आऽतपन्ति । हिरण्यम् । ज्योतिः । पचतः । बभूव ॥३.५०॥