ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

यं वां॑ पि॒ता पच॑ति॒ यं च॑ मा॒ता रि॒प्रान्निर्मु॑क्त्यै॒ शम॑लाच्च वा॒चः। स ओ॑द॒नः श॒तधा॑रः स्व॒र्ग उ॒भे व्याप॒ नभ॑सी महि॒त्वा ॥

स्वर सहित पद पाठ

यम् । वा॒म् । पि॒ता । पच॑ति । यम् । च॒ । मा॒त । रि॒प्रात् । निःऽमु॑क्त्यै । शम॑लात् । च॒ । वा॒चः । सः । ओ॒द॒नः । श॒तऽधा॑रः । स्व॒ःऽगः । उ॒भे इति॑ । वि । आ॒प॒ । नभ॑सी॒ इति॑ । म॒हि॒ऽत्वा ॥३.५॥


स्वर रहित मन्त्र

यं वां पिता पचति यं च माता रिप्रान्निर्मुक्त्यै शमलाच्च वाचः। स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥


स्वर रहित पद पाठ

यम् । वाम् । पिता । पचति । यम् । च । मात । रिप्रात् । निःऽमुक्त्यै । शमलात् । च । वाचः । सः । ओदनः । शतऽधारः । स्वःऽगः । उभे इति । वि । आप । नभसी इति । महिऽत्वा ॥३.५॥