ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒हं प॑चाम्य॒हं द॑दामि॒ ममे॑दु॒ कर्म॑न्क॒रुणेऽधि॑ जा॒या। कौमा॑रो लो॒को अ॑जनिष्ट पु॒त्रोन्वार॑भेथां॒ वय॑ उत्त॒राव॑त् ॥

स्वर सहित पद पाठ

अ॒हम् । प॒चा॒मि॒ । अ॒हम् । द॒दा॒मि॒ । मम॑ । इत् । ऊं॒ इति॑ । कर्म॑न् । क॒रुणे॑ । अधि॑ । जा॒या॒ । कौमा॑रः । लो॒कः । अ॒ज॒नि॒ष्ट॒ः । पु॒त्रः । अ॒नु॒ऽआर॑भेथाम् । वय॑ः । उ॒त्त॒रऽव॑त् ॥३.४७॥


स्वर रहित मन्त्र

अहं पचाम्यहं ददामि ममेदु कर्मन्करुणेऽधि जाया। कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् ॥


स्वर रहित पद पाठ

अहम् । पचामि । अहम् । ददामि । मम । इत् । ऊं इति । कर्मन् । करुणे । अधि । जाया । कौमारः । लोकः । अजनिष्टः । पुत्रः । अनुऽआरभेथाम् । वयः । उत्तरऽवत् ॥३.४७॥