atharvaveda/12/3/38
ऋषिः - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
स्वरः - स्वर्गौदन सूक्त
उप॑ । अ॒स्त॒री॒: । अक॑र: । लो॒कम् । ए॒तम् । उ॒रु: । प्र॒थ॒ता॒म् । अस॑म: । स्व॒:ऽग: । तस्मि॑न् । श्र॒या॒तै॒ । म॒हि॒ष: । सु॒ऽप॒र्ण: । दे॒वा: । ए॒न॒म् । दे॒वता॑भ्य: । प्र । य॒च्छा॒न् ॥३.३८॥
उप । अस्तरी: । अकर: । लोकम् । एतम् । उरु: । प्रथताम् । असम: । स्व:ऽग: । तस्मिन् । श्रयातै । महिष: । सुऽपर्ण: । देवा: । एनम् । देवताभ्य: । प्र । यच्छान् ॥३.३८॥