ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

उपा॑स्तरी॒रक॑रो लो॒कमे॒तमु॒रुः प्र॑थता॒मस॑मः स्व॒र्गः। तस्मि॑ञ्छ्रयातै महि॒षः सु॑प॒र्णो दे॒वा ए॑नं दे॒वता॑भ्यः॒ प्र य॑च्छान् ॥

स्वर सहित पद पाठ

उप॑ । अ॒स्त॒री॒ः । अक॑रः । लो॒कम् । ए॒तम् । उ॒रुः । प्र॒थ॒ता॒म् । अस॑मः । स्व॒ःऽगः । तस्मि॑न् । श्र॒या॒तै॒ । म॒हि॒षः । सु॒ऽप॒र्णः । दे॒वाः । ए॒न॒म् । दे॒वता॑भ्यः । प्र । य॒च्छा॒न् ॥३.३८॥


स्वर रहित मन्त्र

उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः। तस्मिञ्छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यच्छान् ॥


स्वर रहित पद पाठ

उप । अस्तरीः । अकरः । लोकम् । एतम् । उरुः । प्रथताम् । असमः । स्वःऽगः । तस्मिन् । श्रयातै । महिषः । सुऽपर्णः । देवाः । एनम् । देवताभ्यः । प्र । यच्छान् ॥३.३८॥