ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

सर्वा॑न्त्स॒मागा॑ अभि॒जित्य॑ लो॒कान्याव॑न्तः॒ कामाः॒ सम॑तीतृप॒स्तान्। वि गा॑हेथामा॒यव॑नं च॒ दर्वि॒रेक॑स्मि॒न्पात्रे॒ अध्युद्ध॑रैनम् ॥

स्वर सहित पद पाठ

सर्वा॑न् । स॒म्ऽआगा॑ः । अ॒भि॒ऽजित्य॑ । लो॒कान् । याव॑न्तः । कामा॑ः । सम् । अ॒ती॒तृ॒प॒ः । तान् । वि । गा॒हे॒था॒म् । आ॒ऽयव॑नम् । च॒ । दर्वि॑ः । एक॑स्मिन् । पात्रे॑ । अधि॑ । उत् । ह॒र॒ । ए॒न॒म् ॥३.३६॥


स्वर रहित मन्त्र

सर्वान्त्समागा अभिजित्य लोकान्यावन्तः कामाः समतीतृपस्तान्। वि गाहेथामायवनं च दर्विरेकस्मिन्पात्रे अध्युद्धरैनम् ॥


स्वर रहित पद पाठ

सर्वान् । सम्ऽआगाः । अभिऽजित्य । लोकान् । यावन्तः । कामाः । सम् । अतीतृपः । तान् । वि । गाहेथाम् । आऽयवनम् । च । दर्विः । एकस्मिन् । पात्रे । अधि । उत् । हर । एनम् ॥३.३६॥