atharvaveda/12/3/35

ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं॒ त्वा दे॒वता॑श्च्यावयन्तु। तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद्वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त् ॥

ध॒र्ता । ध्रि॒य॒स्व॒ । ध॒रुणे॑ । पृ॒थि॒व्या: । अच्यु॑तम् । त्वा॒ । दे॒वता॑: । च्य॒व॒य॒न्तु॒ । तम् । त्वा॒ । दंप॑ती॒ इति॑ दम्ऽप॑ती । जीव॑न्तौ । जी॒वऽपु॑त्रौ । उत् । वा॒स॒या॒त॒: । परि॑ । अ॒ग्नि॑ऽधाना॑त् ॥३.३५॥

ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

स्वर सहित मन्त्र

ध॒र्ता ध्रि॑यस्व ध॒रुणे॑ पृथि॒व्या अच्यु॑तं॒ त्वा दे॒वता॑श्च्यावयन्तु। तं त्वा॒ दंप॑ती॒ जीव॑न्तौ जी॒वपु॑त्रा॒वुद्वा॑सयातः॒ पर्य॑ग्नि॒धाना॑त् ॥

स्वर सहित पद पाठ

ध॒र्ता । ध्रि॒य॒स्व॒ । ध॒रुणे॑ । पृ॒थि॒व्या: । अच्यु॑तम् । त्वा॒ । दे॒वता॑: । च्य॒व॒य॒न्तु॒ । तम् । त्वा॒ । दंप॑ती॒ इति॑ दम्ऽप॑ती । जीव॑न्तौ । जी॒वऽपु॑त्रौ । उत् । वा॒स॒या॒त॒: । परि॑ । अ॒ग्नि॑ऽधाना॑त् ॥३.३५॥


स्वर रहित मन्त्र

धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु। तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात् ॥


स्वर रहित पद पाठ

धर्ता । ध्रियस्व । धरुणे । पृथिव्या: । अच्युतम् । त्वा । देवता: । च्यवयन्तु । तम् । त्वा । दंपती इति दम्ऽपती । जीवन्तौ । जीवऽपुत्रौ । उत् । वासयात: । परि । अग्निऽधानात् ॥३.३५॥