ऋषिः - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - विराड्गर्भा त्रिष्टुप्
स्वरः - स्वर्गौदन सूक्त
ष॒ष्ट्याम् । श॒रत्ऽसु॑ । नि॒धि॒ऽपाः । अ॒भि । इ॒च्छा॒त् । स्व᳡ः । प॒क्वेन॑ । अ॒भि । अ॒श्न॒वा॒तै॒ । उप॑ । ए॒न॒म् । जी॒वा॒न् । पि॒तर॑ः । च॒ । पु॒त्राः । ए॒तम् । स्व॒ःऽगम् । ग॒म॒य॒ । अन्त॑म् । अ॒ग्नेः ॥३.३४॥
षष्ट्याम् । शरत्ऽसु । निधिऽपाः । अभि । इच्छात् । स्व᳡ः । पक्वेन । अभि । अश्नवातै । उप । एनम् । जीवान् । पितरः । च । पुत्राः । एतम् । स्वःऽगम् । गमय । अन्तम् । अग्नेः ॥३.३४॥