ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

संख्या॑ता स्तो॒काः पृ॑थि॒वीं स॑चन्ते प्राणापा॒नैः संमि॑ता॒ ओष॑धीभिः। असं॑ख्याता ओ॒प्यमा॑नाः सु॒वर्णाः॒ सर्वं॒ व्यापुः॒ शुच॑यः शुचि॒त्वम् ॥

स्वर सहित पद पाठ

सम्ऽख्या॑ताः । स्तो॒काः । पृ॒थि॒वीम् । स॒च॒न्ते॒ । प्रा॒णा॒पा॒नैः । सम्ऽमि॑ताः । ओष॑धीभिः । अस॑म्ऽख्याताः । आ॒ऽउ॒प्यमा॑नाः । सु॒ऽवर्णा॑ः । सर्व॑म्‌ । वि । आ॒पु॒ः । शुच॑यः । शु॒चि॒ऽत्वम् ॥३.२८॥


स्वर रहित मन्त्र

संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः। असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥


स्वर रहित पद पाठ

सम्ऽख्याताः । स्तोकाः । पृथिवीम् । सचन्ते । प्राणापानैः । सम्ऽमिताः । ओषधीभिः । असम्ऽख्याताः । आऽउप्यमानाः । सुऽवर्णाः । सर्वम्‌ । वि । आपुः । शुचयः । शुचिऽत्वम् ॥३.२८॥