ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

उ॒तेव॑ प्र॒भ्वीरु॒त संमि॑तास उ॒त शु॒क्राः शुच॑यश्चा॒मृता॑सः। ता ओ॑द॒नं दंप॑तिभ्यां॒ प्रशि॑ष्टा॒ आपः॒ शिक्ष॑न्तीः पचता सुनाथाः ॥

स्वर सहित पद पाठ

उ॒त्ऽइ॑व । प्र॒ऽभ्वीः । उ॒त । सम्ऽमि॑तासः । उ॒त । शु॒क्राः । शुच॑यः । च॒ । अ॒मृता॑सः । ताः । ओ॒द॒नम् । दंप॑तिऽभ्याम् । प्रऽशि॑ष्टाः । आ॒प॒ः । शिक्ष॑न्तीः । प॒च॒त॒ । सु॒ऽना॒था॒ः ॥३.२७॥


स्वर रहित मन्त्र

उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः। ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥


स्वर रहित पद पाठ

उत्ऽइव । प्रऽभ्वीः । उत । सम्ऽमितासः । उत । शुक्राः । शुचयः । च । अमृतासः । ताः । ओदनम् । दंपतिऽभ्याम् । प्रऽशिष्टाः । आपः । शिक्षन्तीः । पचत । सुऽनाथाः ॥३.२७॥