ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

आ य॑न्ति दि॒वः पृ॑थि॒वीं स॑चन्ते॒ भूम्याः॑ सचन्ते॒ अध्य॒न्तरि॑क्षम्। शु॒द्धाः स॒तीस्ता उ॑ शुम्भन्त ए॒व ता नः॑ स्व॒र्गम॒भि लो॒कं न॑यन्तु ॥

स्वर सहित पद पाठ

आ । य॒न्ति॒ । दि॒वः । पृ॒थि॒वीम् । स॒च॒न्ते॒ । भूम्या॑ः । स॒च॒न्ते॒ । अधि॑ । अ॒न्तरि॑क्षम् । शु॒ध्दाः । स॒तीः । ताः । ऊं॒ इति॑ । शुम्भ॑न्ते । ए॒व । ताः । न॒ः । स्व॒ःऽगम् । अ॒भि । लो॒कम् । न॒य॒न्तु॒ ॥३..२६॥


स्वर रहित मन्त्र

आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम्। शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥


स्वर रहित पद पाठ

आ । यन्ति । दिवः । पृथिवीम् । सचन्ते । भूम्याः । सचन्ते । अधि । अन्तरिक्षम् । शुध्दाः । सतीः । ताः । ऊं इति । शुम्भन्ते । एव । ताः । नः । स्वःऽगम् । अभि । लोकम् । नयन्तु ॥३..२६॥