ऋषिः - यमः

देवता - स्वर्गः, ओदनः, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्गौदन सूक्त

PreviousNext
स्वर सहित मन्त्र

त्रयो॑ लो॒काः संमि॑ता॒ ब्राह्म॑णेन॒ द्यौरे॒वासौ पृ॑थि॒व्यन्तरि॑क्षम्। अं॒शून्गृ॑भी॒त्वान्वार॑भेथा॒मा प्या॑यन्तां॒ पुन॒रा य॑न्तु॒ शूर्प॑म् ॥

स्वर सहित पद पाठ

त्रय॑ः । लो॒काः । सम्ऽमि॑ताः । ब्राह्म॑णेन । द्यौः । ए॒व । अ॒सौ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् । अं॒शून् । गृ॒भी॒त्वा । अ॒नु॒ऽआर॑भेथाम् । आ । प्या॒य॒न्ता॒म् । पुन॑ः । आ । य॒न्तु॒ । शूर्प॑म् ॥३.२०॥


स्वर रहित मन्त्र

त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम्। अंशून्गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥


स्वर रहित पद पाठ

त्रयः । लोकाः । सम्ऽमिताः । ब्राह्मणेन । द्यौः । एव । असौ । पृथिवी । अन्तरिक्षम् । अंशून् । गृभीत्वा । अनुऽआरभेथाम् । आ । प्यायन्ताम् । पुनः । आ । यन्तु । शूर्पम् ॥३.२०॥